वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: मरुतः ऋषि: गोतमो राहूगणः छन्द: गायत्री स्वर: षड्जः काण्ड:

श꣣शमान꣡स्य꣢ वा नरः꣣ स्वे꣡द꣢स्य सत्यशवसः । वि꣣दा꣡ काम꣢꣯स्य꣣ वे꣡न꣢तः ॥१५९४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

शशमानस्य वा नरः स्वेदस्य सत्यशवसः । विदा कामस्य वेनतः ॥१५९४॥

मन्त्र उच्चारण
पद पाठ

श꣣शमान꣡स्य꣢ । वा꣣ । नरः । स्वे꣡द꣢꣯स्य । स꣣त्यशवसः । सत्य । शवसः । विद꣢ । का꣡म꣢꣯स्य । वे꣡न꣢꣯तः ॥१५९४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1594 | (कौथोम) 7 » 3 » 12 » 1 | (रानायाणीय) 16 » 3 » 2 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे एक ऋचावाले सूक्त में विद्वान् जनों को सम्बोधन है।

पदार्थान्वयभाषाः -

हे (नरः) नेता मरुतो ! विद्वान् लोगो ! तुम (शशमानस्य) शीघ्रता से प्रयत्न करते हुए, (स्वेदस्य) पसीने से तर-बतर शरीरवाले, (सत्यशवसः) सत्य बलवाले (वेनतः वा) और महत्वाकाङ्क्षा से युक्त मनुष्य के (कामस्य) मनोरथ को (विद) जानो और पूर्ण करो ॥१॥

भावार्थभाषाः -

परिश्रम के पसीने से नहाये शरीरवाले, सत्य विज्ञानवाले, सत्य बलवाले और सत्य कर्मवाले मनुष्य की ही महत्वाकाङ्क्षाएँ सिद्ध होती हैं, आलसी की नहीं ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अस्मिन्नेकर्चे सूक्ते विद्वांसो जनाः सम्बोध्यन्ते।

पदार्थान्वयभाषाः -

हे (नरः) नेतारः मरुतो विद्वांसो जनाः ! यूयम् (शशमानस्य) द्रुतगत्या प्रयतमानस्य। [शश प्लुतगतौ, भ्वादिः।] (स्वेदस्य) स्विन्नगात्रस्य, (सत्यशवसः) सत्यबलस्य, (वेनतः वा) महत्त्वाकाङ्क्षायुक्तस्य च जनस्य। [वेनतिः कान्तिकर्मा। निघं० २।६। वा इति समुच्चये। निरु० १।५।] (कामस्य) कामम् अभीप्सितम्। [अत्र कर्मणि षष्ठी।] (विद) जानीत, पूरयत च। [संहितायां द्व्यचोऽतस्तिङः। अ० ६।३।१३५ इति दीर्घः] ॥१॥२

भावार्थभाषाः -

परिश्रमेण स्विन्नगात्रस्य सत्यविज्ञानस्य सत्यबलस्य सत्यकर्मण एव जनस्य महत्त्वाकाङ्क्षाः सिध्यन्ति, नालसस्य ॥१॥